________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मलीमसं पुनः पुष्पकासीसे मलिनायसोः । महारसः पुनरिक्षौ खर्जूखौ कसेरुणि मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे रासेरसो रससिद्धिबलौ शृङ्गारहासयोः । षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे स्वः श्रेयसं सुखे परानन्दे च भद्रे च सर्व्वरसस्तु धूणके । वाद्यभाण्डेऽवग्रहस्तु ज्ञानभेदे गजालिके प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके । अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने बन्धुपयोगयोश्चोपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले गन्धवहा तु नासायां तमोपहो जिने खौ | चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च
प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे । क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः । शापेऽथ परिवाहोऽम्बुच्छासे राजार्हवस्तुनि परिबर्हः परीवारे पार्थिवोचितवस्तुनि । पितामहः पद्मयोनौ जनके जनकस्य च
૨૯૨
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।। ३३१ ॥
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
।। ३३५ ।।
॥ ३३६ ॥
॥ ३३७ ॥
॥ ३३८ ॥
॥ ३३९ ॥
॥ ३४० ॥
।। ३४१ ।।
।। ३४२ ।।