________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१९ ॥
॥ ३२०॥
।। ३२१ ॥
॥ ३२२ ॥
॥ ३२३ ॥
।। ३२४ ॥
नन्दिघोषो बन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके गोक्षुरे गुग्गुलौ लाक्षारास्नातुण्डीरिकासु च । भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः महाघोषो महाशब्दे स्यान्महाघोषमापणे । महाघोषा शृङ्गयोषध्यां राजवृक्षः पियालके सुवर्णालुतरौ वातरुषः शक्रशरासने । वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे । भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः । अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने कलहंसो राजहंसे कादम्बे नृपसत्तमे । कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि घनरसोऽप्सु कपूर सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपया॑ च चन्द्रहासोऽसिमात्रके दशग्रीवकृपाणे च तामरसं तु पङ्कजे । ताम्रकाञ्चनयोः दिव्यचक्षुस्त्वन्धे सुलोचने सुगन्धभेदे च निश्रेयसं कल्याणमोक्षयोः । नीलजसा नदीभेदेऽप्सरोभेदे तडित्यपि पुनर्वसुः स्यानक्षत्रे कात्यायनमुनावपि । पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा
।। ३२५ ॥
।। ३२६॥
।। ३२७ ॥
॥ ३२८॥
॥ ३२९ ॥
।। ३३० ॥
૨૯૧
For Private And Personal Use Only