________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गय ताम्रस्य कलशेऽपि च बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि । बलदेवा त्रायमाणा रोहिताश्वो हुताशने हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलादण्डोत्पलयोः शारिवौषधे सहदेवी तु सर्पाक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः पतने चाश्रयाशस्तु वह्नावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपर्शः शिवे राहौ भार्गवे चूर्णलेपिनि खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् करणे वरुणास्त्रे च प्रतिष्कशः पुरोगमे । वार्त्ताहारे सहाये च पुरोडाशो हविर्भिदि हुतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भ्राष्ट्रकिशोरयोः आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधोदारुणि चानिमिषः सुरमत्स्ययोः
अनुतर्षो ऽभिलाषे स्यात्तृषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वः पण्ययोषिति गण्डीर्यं किम्पुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दरादौ गुग्लुलौ विषमच्छदे
૨૯૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
३०७ ॥
॥ ३०८ ॥
॥ ३०९
॥ ३१० ॥
॥ ३११ ॥
॥ ३१२ ॥
॥ ३९३ ॥
॥ ३१४ ॥
।। ३१५ ।।
।। ३१६ ॥
॥ ३१७ ॥
।। ३१८ ॥