________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २९५ ॥
॥ २९६ ॥
॥ २९७ ॥
॥ २९८ ॥
॥ २९९ ॥
॥ ३०० ॥
मदेनाऽव्यक्तवपने महानीलो मणेभिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हारे स्त्रीणां, दशनक्षतभिद्यपि मुक्ताफलं घनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले, मृत्युफली कदल्यथ यवफलो गांसिकायां कुटजत्वचिसारयोः । वायुफलं तु जलदोपले शकशरासने वातकेलि: कलालापे षिड्गानां दन्तलेखने । विचकिलो दमनके मल्ल्यामथ बृहन्नलः महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले हस्तिमल्लः सुरद्विपे विघ्नेशे हलाहलस्तु हयलालोरगे विषे। ज्येष्ठ्यां च हरिताली दूर्वागगनरेखयोः कृपाणलतिकायाश्चानुभावो भावसूचने । प्रभावे निश्चयेऽथापहवः स्नेहापलापयोः अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि । आदीनवः पुनर्दोषे, परिक्लिष्टदुरन्तयोः उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे । पाचेतसे याचके. च जलबिल्वस्तु कर्कटे जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे। दुगभेदे चकोरे च धामार्गवस्तु घोपके अपामार्गेऽप्यथ परिप्लावावाकुलचञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि
॥ ३०१॥
।। ३०२ ॥
।। ३०३॥
।। ३०४ ॥
।। ३०५ ॥
। ३०६॥
૨૮૯
For Private And Personal Use Only