________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। २८३ ॥
॥ २८४॥
।। २८५ ॥
॥ २८६ ॥
।। २८७॥
॥ २८८ ॥
शतपत्रन्तु राजीवे संप्रहारो गतौ रणे। सहचरः पुनझिण्ट्यां वयस्ये प्रतिबन्धके समाहारस्तु संक्षेप एकत्रकरणेऽपि च । समुद्रारुहभेदे सेतुबन्धे तिमिङ्गिले सालमारस्तरौ हिङ्गौ सुकुमारस्तु कोमले। पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नरेन्द्रयोः अतिबल: स्यात् प्रबलेऽतिबला तु बलाभिदि। अक्षमाला त्वक्षसूत्रे वशिष्ठस्य च योषिति अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलं गुगुलोदूखले कलकलः पुनः कोलाहले सर्जरसे कन्दरालो जटिद्रुमे । गर्दभाण्डेऽप्यथ कमण्डलू पर्कटिकुण्डिके कुतूहलं शस्तेऽद्भुते खतमालो बलाहके। धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः गन्धफली तु प्रियङ्गौ चम्पकस्य च कोरके । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे दलामलं पुनर्दमनके मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने। पोटगलो नले काशे झषे बहुफलः पुनः नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे । ग्रामकूटे पांशुवर्षे भद्रकाल्यौषधीभिदि गन्धोल्यां हरपल्यां च, महाकालो महेश्वरे । किम्पाके गणभेदे च, मदकलो मदिद्विपे
॥ २८९ ॥
॥ २९० ॥
॥ २९१ ॥
।। २९२ ॥
।। २९३ ॥
।। २९४ ॥
૨૮૮
For Private And Personal Use Only