________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandiri
॥ २२३ ॥
॥ २२४ ॥
॥ २२५ ॥
॥ २२६॥
।। २२७ ॥
॥ २२८॥
जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः तृणमूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये । प्रतिभयं भये भीष्मे, प्रतिश्रयः सभौकसोः परिधायः परिकरे, जलस्थाननितम्बयोः । पाञ्चजन्यः पोटगले, शङ्ख दामोदरस्य च पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च, फलोदयो धुलाभयोः बिलेशयो मूषिकेऽहौ, भागधेयः पुनः करे। दायादे भागधेयन्तु, भाग्ये महालयः पुनः तीर्थे विहारपरमात्मनोर्महोदयं पुरे। महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधने रौहिणेयो वत्से बुधे बले समुच्छ्रयो वैरोन्नत्योः, समुदाये गणे रणे । समुदयस्तूद्गमेऽपि, सम्परायस्तु संयुगे आपद्युत्तरकाले च, स्यात्समाह्वय आहवे। पशुभिः पक्षिभिर्युते, स्थूलोच्चयो वरण्डके गजानां मध्यमगते, गण्डाश्माकात्य॑योरपि । हिरण्मयो लोकधातौ, सौवर्णेऽभिमरो वधे स्वबलात् साध्वसे युद्धेऽवसरो वत्सरे क्षणे। अरुष्करं व्रणकरे भल्लातकफलेऽपि च
॥ २२९॥
॥ २३० ॥
॥ २३१ ॥
।। २३२॥
॥ २३३ ॥
॥२३४।
२८३
For Private And Personal Use Only