________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २११ ॥
॥ २१२॥
॥ २१३॥
॥ २१४ ॥
॥ २१५ ॥
।। २१६॥
मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽग्नौ च हेमपुष्पन्तु चम्पके अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बूभित् । पिण्डखजूरवृक्षश्चाप्यवष्टम्भस्तु काञ्चने संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके । शातकुम्भन्तु कनकेऽभ्यागमः समरेऽन्तिके घाते रोधेऽभ्युपगमेऽनूपमस्तु मनोरमे। अनूपमा सुप्रतीकस्त्रियामुपगमः पुनः अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि आरम्भेऽथ जलगुल्मो जलावर्तेम्बुचत्वरे। कमठे दण्डयामस्तु दिवसे कुम्भजे यमे प्र(प्ल)वङ्गमः कपौ भेके पराक्रमस्तु विक्रमे । सामर्थ्य चाभियोगे च महापद्मः पुनर्निधौ नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवतिनि अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः । अन्वाहार्यममावास्या श्राद्धमिष्टेश्च दक्षिणा अवश्यायो हिमे दर्पऽप्यपसव्यन्तु दक्षिणे। प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः उपकार्या राजगेहमुपकारोचिताऽपि च । चन्द्रोदयो शश्युदयोल्लोचौ चन्द्रोदयौषधौ
॥ २१७ ॥
॥ २१८॥
॥ २१९॥
॥ २२०॥
॥ २२१ ।।
॥ २२२ ॥
૨૮૨
For Private And Personal Use Only