________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१५१ ॥
॥ १५२॥
॥ १५३॥
॥१५४ ॥
॥ १५५ ॥
॥१५६ ॥
इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ उपलब्धिर्मतौ प्राप्तौ, कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च, तीक्ष्णगन्धावचौषधे शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले । वेतसे[च] महौषधं तु विषाशुण्ठ्यो रसोनके ब्रह्मबन्धुनिन्द्यविप्रे, बान्धवे ब्राह्मणस्य च। समुन्नद्धस्तूद्धर्वबद्धे पण्डितम्मन्यदृप्तयोः अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले। कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च आच्छादनं तु वसने सम्पिधानेऽपवारणे । आकलनं परिसंख्याकाङ्क्षयोर्बन्धनेऽपि च आतञ्चनं स्याज्जवने प्रीणनप्रतिवापयोः । आवेशनं भूतावेशे प्रवेशे शिल्पिवेश्मनि आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्राणाधारे श्याले विदूषके
॥ १५७॥
॥ १५८॥
॥ १५९॥
॥ १६०॥
॥ १६१ ॥
॥ १६२॥
છo.
For Private And Personal Use Only