SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७९ ॥ ॥ ८०॥ ॥८१॥ ।। ८२ ॥ ॥ ८३॥ ॥ ८४।। श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च देवमणिविष्णुवक्षो मणौ हरे अश्वस्य कण्ठावर्ते च नारायणस्तु केशवे । नारायणी शतावर्युमाश्रीः निःसरणमृतौ । उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निस्तरणन्तु निस्तारे तरणोपाययोरपि निरूपणं विचारावलोकनयोनिदर्शने । निगरणं भोजने स्यात् निगरणः पुनर्गले प्रकरणं स्यात्प्रस्तावे रूपकेऽथ प्रवारणम् । काम्यदाने निषेधे च परीणन्तु पर्वणि पर्णवृन्तरसे पर्णसिरायां घृतकम्बले । परायणं स्यादभीष्टे तत्पराश्रययोरपि परवाणिधर्माध्यक्षे वर्षे पारायणं पुनः । कात्स्न्र्ये पारगतौ सङ्गे पीलु पण्यौषधीभिदि मूळयां चिचिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनामृणस्तु खञ्जने दर्दराने रक्तरेणुः पलाशकलिकोद्गमे । सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे। अकोठे वारबाणस्तु कूर्पासे कवचेऽपि च विदारणं भेदने स्यात्सम्पराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम् शरवाणिः शरमुखे पदातौ शरजीविनि । शिखरिणी वृत्तभेदे रोमाली पेयभेदयोः ॥ ८५ ॥ ॥८६॥ ।। ८७॥ ॥ ८८॥ ॥ ८९ ॥ ॥ ९०॥ ૧ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy