________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६७॥
॥ ६८॥
।। ६९ ॥
॥ ७० ॥
॥७१ ॥
। ७२॥
कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले कालपृष्ठन्तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः जम्बीरे नागरङ्गे च कर्मरङ्गकपित्थयोः । पूतिकाष्ठन्तु सरले देवदारुद्रुमेऽपि च सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके । हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च अपोगण्डोऽतिभीरौ स्याच्छिंशुकाविकलाङ्गयोः । चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् जलरुण्ड: पयोरेणौ जलावर्ते भुजङ्गमे । देवताडो घोषकेऽग्नौ राही वातखुडा पुनः वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते । अध्यारूढ: समारुढेऽभ्यधिकेऽङ्गारिणी पुनः भास्करत्यक्तदिकृल्योराथर्वणः पुरोधसि । अथर्वणज्ञब्राह्मणे चाप्यारोहणं प्ररोहणे समारोहे सोपाने च स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोरुत्क्षेपणमुदञ्चनम् व्यञ्जनं धान्यमलनं वस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके पणषोडशके चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि जुहुराणोऽध्वर्युवढ्योः तण्डुरीणस्तु ववरे । तण्डुलाम्बुनिकीटे च तैलपर्णी तु सिहूके
।। ७३ ॥
॥ ७४ ॥
॥ ७५ ॥
॥७६ ॥
॥ ७७ ।।
॥ ७८॥
૨૦૦
For Private And Personal Use Only