________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
|| ४८॥
अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके। गुडूची सोमलतयोः पञ्चनखस्तु कच्छपे गजे बद्धशिखो बाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थिनि व्याघ्रनखस्तु कन्दे स्याद्गान्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः शिलीमुखोऽलौ बाणे चाऽपवर्गस्त्यागमोक्षयोः । क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे आक्रोशे शपथे चेहामृगः स्याद् रूपकान्तरे । वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ रोगे च भेदे च कटभङ्गो नृपात्यये हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । स्वातन्त्र्ये विधवत्वे च दीर्घाध्वगः क्रमेलके लेखहारे मल्लनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि कङ्कशृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे । वाते कश्मीरजं कुष्टे कुङ्कुमे पौष्करेऽपि च कश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके। वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि । शूद्रे च द्विजराजस्तु शेषे तार्थे निशाकरे
।। ४९ ।।
॥ ५० ॥
॥५१॥
॥ ५२॥
॥५३॥
॥ ५४॥
૨૬૮
For Private And Personal Use Only