________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५॥
॥३६॥
लेखहारे वर्तरूक: काकनीले जलावटे। वराटकः पद्मबीजकोशे रज्जौ कपके वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । संवर्तुले च भित्तो च विनायको गणाधिपे बुद्धे तार्थे गुरौ विघ्ने वितुनकन्तु धान्यके । झाटामलौषधौ वापि विदूषकोऽन्यनिन्दके क्रीडनीयकपात्रे च विशेषकस्तु पुण्ड्रके। विशेषाधायके वापि वृन्दारको मनोरमे सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः । वैतालिकः खेट्टताले मङ्गलपाठकेऽपि च वैनाशिक: स्यात् क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वैश्यापुत्रे च शूद्रतः शतानीको मुनौ वृद्धे शालावृको बलीमुखे। सारमेये शृगाले च शिलाटकस्तिलाट्टयोः शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । संघाटिका तु कुट्टन्यां घ्राणे युग्मेऽम्बुकण्टके सन्तानिका क्षीरसारे मर्कटस्य च जालके। सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षेपणिके संन्यस्ते भ्रान्तिजीविनि सोमवल्क: कट्फले स्याद्वलक्षः खदिद्रुमे । सौगन्धिको गन्धवणिक् सौगन्धिकस्तु कत्तृणे गन्धोपले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भल्लाते चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे
॥३७॥
॥ ३८ ॥
॥ ३९ ॥
॥४०॥
॥४१॥
॥ ४२ ॥
૨૬૦
For Private And Personal Use Only