SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः । चूचुके सीवनसूत्रे पिण्डीतक: फणिज्जके तगरे मदनद्रौ च पुण्डरीकं सिताम्बुजे । सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे सहकारे गणधरे राजिलाहौ गजज्वरे । कोशकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके कृपणे गन्धमृगे च स्यात्पूर्णानकमानके । पात्रे च पूर्णपात्रे च फर्फरीकन्तु मार्दवे फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ । दैत्ये नागे बर्बरीक : केशविन्यासकर्मणि कालभेदे महाकाले बकेरुका बलाकिका | वातवर्जितशाखा च भ्रमरको मधुव्रते गिरिके केशचूर्णे च भयानकस्तु भीषणे । व्याघ्रे राहो रसे भट्टारको राज्ञि मुनौ सुरे भार्याटिको मृगभेदे भार्यया च विनिर्जिते । मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके । माणवकः कुपुंसिस्याद्बालहारभिदोरपि मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि । रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले राधरङ्कुस्तु नासीरे शीकरे जलदोपले । लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च प्रभोर्भालदर्शिनि च लेखीलकस्तु तत्र यः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् F For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy