________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७५१॥
॥ ७५२॥
॥ ७५३॥
।। ७५४॥
|| ७५५ ॥
विलासो हावे लीलायां विहायो व्योमपक्षिणोः । श्रीवासः स्याद् वृकधूपे कमले मधुसूदने श्रेयसी गजपिप्पल्यामभया रास्नयोरपि। समासः समर्थनायां स्यात् संक्षेपैकपद्ययोः सप्ताचिः क्रूरनेत्रेऽग्नौ साधीयानतिशोभने । अतिबाढे साहसन्तु दमे दुष्करकर्मणि अविमृश्यकृतौ धाष्ट्ये सारसं सरसीरुहे। सारसः पुष्कराख्येन्दोः सुमनाः प्राज्ञदेवयोः जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि। सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले अत्यूहा तु नीलिकायां, आग्रहोऽनुग्रहे ग्रहे । आसङ्गक्रमणयोश्चापि आरोहो दैर्ध्य उच्छ्रये आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि । कलहो भण्डने खड्गकोशे समरराढयोः कटाह: स्यात्कूर्मपृष्ठे कपर महिषीशिशौ । तैलादिपाकपात्रे च दात्यूहः कालकण्ठके चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे। निहो द्वारे निर्यासे शेखरे नागदन्तके निरूहो निश्चिते तर्के बस्तिभेदेऽथ निग्रहः । बन्धके भर्त्सने सीम्नि प्रग्रहः किरणे भुजे तुलासूत्रेऽश्वादिरश्मौ सुवर्णे हलिपादपे। बन्धने वन्ध्यां प्रवाहो व्यवहाराम्बुवेगयोः
॥७५६॥
॥ ७५७॥
॥७५८॥
॥ ७५९ ॥
॥ ७६०॥
॥ ७६१॥
૨૬૩
For Private And Personal Use Only