________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२७॥
॥ ७२८ ॥
॥ ७२९ ॥
॥७३० ।।
॥ ७३१ ॥
॥ ७३२॥
पापे रोगेऽपराधे च कुल्माषं स्यात्तु काञ्चिके । कुल्माक्षोऽर्धस्विन्नधान्ये गवाक्षो जालके कपौ गवाक्षी विन्द्रवारूण्यां गण्डूषो मुखपूरणे। गजस्य च कराङ्गुल्यां प्रसृत्या प्रमितेऽपि च गोरक्षो गोपनारङ्गौ जिगीषा तु जयस्पृहा । व्यवसायः प्रकर्षश्च तरीषः शोभनाकृतौ भेलेऽब्धौ व्यवसाये च ताविषोऽब्धिसुवर्णयोः । स्वर्गे च नहुषो राजविशेषे नागभिद्यपि निकषः शाणफलके निकषा यातुमातरि । निमेषनिमिषौ नेत्रमीलने कालभिद्यपि प्रत्यूषः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः । परुषं कबुर रूक्षे स्यानिष्ठुरवचस्यपि पीयूषममृते नव्यसूतधेनोः पयस्यपि । पुरुषस्त्वात्मनि नरे पुन्नागे चाथ पौरुषम् ऊर्वविस्तृतदो: पाणिपुरुषोन्मानतेजसोः । पुंसः कर्मणि भावे च महिषी नृपयोषिति सैरिभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः । मारिषा दक्षजननी मृगाक्षी मृगलोचना त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने। चकोरे महिषे क्रूरे पारावतेऽथ रौहिषः मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने। विधुरे चाथ शुश्रूषोपासनाश्रवणेच्छयोः शैलूष: स्यान्नटे बिल्वे संहर्षः पवने मुदि । स्पर्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे
॥ ७३३ ॥
॥७३४॥
॥ ७३५॥
॥ ७३६ ॥
॥ ७३७ ॥
॥ ७३८ ॥
૨૬૧
For Private And Personal Use Only