________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ । प्रजापतिर्बह्म चतुर्मुखो भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ १२६ ॥ शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।। हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि
|| १२७ ॥ विष्णुजिष्णुजनार्दनौ हरिहषीकेशाच्युताः केशवो दाशार्हः पुरुषोत्तमोब्धिशयनोपेन्द्रावजेन्द्रानुजौ । विष्वक्सेननरायणौ जलशयो नारायणः श्रीपतिदैत्यास्श्चि पुराणयज्ञपुरुषस्ता_ध्वजोधोक्षजः ॥ १२८ ।। गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मशयपद्मनाभाः । वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥१२९ ।। दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः । त्रिविक्रमो जहुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ १३० ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभूपाण्डवायनसुवर्णबिन्दवः ।। ॥ १३१॥ श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च
।। १३२ ॥ यदुनाथो गदाशाङ्गचक्र श्रीवत्सशङ्खभृत् । मधुधेनुकचाणूरपूतनायमलार्जुनाः
॥ १३३ ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसकेशिमुरा: साल्वमैन्दद्विविदराहवः
॥ १३४॥ हिरण्यकशिपुर्बाणः कालीयो नरको बलिः । शिशुपालश्चास्य वध्या वैनतेयस्यु वाहनम्
॥ १३५ ॥ शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दकः । गदा कौमोदकी चापं शाङ्गं चक्र सुदर्शनः
॥ १३६ ॥
૧૯
For Private And Personal Use Only