SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो दिन्दुरानकदुन्दुभिः ॥ १३७ ॥ रामो हली मुसलिसात्वतकामपाला: संकर्षणः प्रियमधुर्बलहिणेयौ। रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । मुसलं त्वस्य सौनन्दं हलं संवर्तकाह्वयम् ॥ १३९ ॥ लक्ष्मी: पद्मा रमा या मा ता सा श्री: कमलेन्दिरा। हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ १४० ॥ मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोङ्गजः । मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः।। १४१ प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ।। १४२॥ केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया। मनःशृङ्गारसंकल्पात्मानो योनिः सुहृद् मधुः ॥१४३ ॥ सुतोऽनिरुद्ध ऋष्याङ्क उषेशो ब्रह्मसूश्च सः । गरुड: शाल्मल्यरुणावरजो विष्णुवाहनम् ॥ १४४ ॥ सौपर्णेयो वैनतेयः सुपर्णः सारातिर्वजिजिद् वज्रतुण्डः । पक्षिस्वामी काश्यपिः स्वर्णकायस्तायः कामायुर्गरुत्मान् सुधाहत्।। बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः पञ्चज्ञानः षडभिज्ञो दशा) दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥१४७॥ द्वादशाक्षो दशबलस्त्रिकायः श्रीघनाद्वयौ। समन्तभद्रः संगुप्तो दयाकू! विनायक: ॥ १४८ ॥ ॥ १४६ ॥ २० For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy