________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६०७॥
॥६०८॥
॥६०९ ॥
॥६१०॥
॥६११॥
॥ ६१२॥
वातास्तजलेऽम्बुकणे शुषिरं वाद्यगर्तयोः । शुषिरोऽग्नौ सरन्ध्रे च शृङ्गारो गजमण्डने सुरते रसभेदे च शृङ्गारं नागसम्भवे । चूर्णे लवङ्गपुष्पे च संस्तर: संस्तरे मखे सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः । सङ्गरं तु फले शम्या: सम्भारः सम्भृतौ गणे संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । गुणभेदेऽथ सङ्कारोऽवकरेऽग्निचटत्कृतौ सङ्कारी भुक्तकन्यायां सामुद्रं लवणान्तरे। लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे सावित्री देवताभेदे सिन्दूरं नागसम्भवे । सिन्दूरस्तु वृक्षभेदे सिदूरी रक्तचेलिका रोचनी धातकी सुन्दर्य्यङ्गनायां द्रुमान्तरे। शुनारस्तु शुनीस्तन्ये सर्पान्ते चटकेऽपि च सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् । वर्णसंकरसंभूतस्त्रीमहल्लिकयोरपि सौवीरं काञ्जिकस्रोताञ्जनयोर्बदरीफले। स्यादर्गलं तु कल्लोले परिघेऽप्यनलोऽनिले वसुदेवे वसौ वहावरालः समदद्विपे। वक्रे सर्जरसे चाप्यवेलस्तु स्यादपह्नवे अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः । अचला भुव्यञ्जलिस्तु कुडवे करसम्पुटे अङ्गुलिः करशाखायां कर्णिकायां गजस्य च। आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः
॥ ६१३॥
।। ६१४॥
॥ ६१५ ॥
॥ ६१६ ॥
॥ ६१७ ॥
॥६१८ ॥
૨૫૧
For Private And Personal Use Only