________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९५ ॥
॥ ५९६ ॥
॥ ५९७ ॥
॥ ५९८॥
॥ ५९९ ॥
॥ ६००॥
वासुरा वासिता रात्र्यो(वि विष्टर आसने । पादपे कुशमुष्टौ च विस्तारो स्तम्बविस्तृती विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च। विकारो विकृतौ रागे विहारस्तु जिनालये लीलायां भ्रमणे स्कन्धे विदारो युधि दारुणे। विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः । रसालायां विसरस्तु समूहे प्रसरेऽपि च शर्वरो म्लेच्छभेदेऽप्सु हरेऽथ शम्बरं जले । चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ । शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे उपलायां शर्करायुग्देशे च शकलेऽपि च । शर्वरी निशि नार्यां च शक्वरी सरिदन्तरे छन्दोजातौ मेखलायां शारीरं देहजे वृषे । शार्वरं घातुके ध्वान्ते शावरो रोध्रपापयोः अपराधे शावरी तु शूकशिम्ब्यथ शाक्वरम् । छन्दोभित् शाक्वरस्तूक्षा शालारं पक्षिपञ्जरे सोपानहस्तिनखयोः शिखरं पुलकाग्रयोः । पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च वृक्षाग्रे पर्वताग्रे च शिशिरः शीतले हिमे । ऋतुभेदे शिलीन्ध्रस्तु तरुमीनप्रभेदयोः शिलीन्धं कदलीपुष्पे कवकत्रिपुटाख्ययोः । शिलीन्ध्री विहगी गण्डूपदीमृदथ शीकरः
॥६०१॥
।। ६०२॥
॥६०३॥
॥६०४॥
॥ ६०५॥
॥६०६॥
૨૫૦
For Private And Personal Use Only