________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पाण्डुरं तु मरुवके पिण्डारो भिक्षुके द्रुमे । महिषीपालके क्षेपे पिठरं मथि मुस्तके उखायां च पिञ्जरस्तु पीतरक्तेऽश्वभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूलकूर्मयोः पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे बठरो वष्टशठयोः बन्धूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः बन्धु पण्ययोषायां बर्बरा नीवृदन्तरे । बर्बरस्तु हञ्जिकायां पामरे केशचक्रले पुष्पे च बर्बरा शाके बर्करः पशुनर्मणोः । बदरा स्यादेलापर्ण्य विष्णुक्रान्तौषधावपि बदरी कोलिकार्पास्योः बदरन्तु तयोः फले । बदरस्तु कर्पासास्थि भगुरो वकनश्वरौ भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः । भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका । मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ । नक्रे राशिविशेषे च मन्दरो मन्थपर्व्वते स्वर्गमन्दारयोर्मन्दे बहले मधुरं विधे । मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि मधुरा मथुरापु यष्टीमेदामधूलिषु । मधुकर्कटिकायां च मिश्रेया शतपुष्पयोः
૨૪૮
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५७१ ॥
॥ ५७२ ॥
॥ ५७३ ॥
॥ ५७४ ॥
॥ ५७५ ॥
॥ ५७६ ॥
॥ ५७७ ॥
॥ ५७८ ॥
॥ ५७९ ॥
॥ ५८० ॥
।। ५८१ ।।
।। ५८२ ।।