SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चाटुकारे चक्रगण्डावपि चातुरके यथा । चमरश्चामरे दैत्ये चमरी तु मृगान्तरे चिकुरोऽह गृहबभ्रौ केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽग्नौ परश्वधे करवाले च रज्जौ च छित्वरो वैरिधूर्तयोः । छित्त्वरं छेदनद्रव्ये जठरः कुक्षिवृद्धयोः कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीर: प्रस्थपुष्पाख्यः शाके दन्तशठद्रुमे जलेन्द्रो जम्भकेऽम्भोधौ वरुणेऽप्यथ झर्झरः । वाद्ये न कलियुगे झलरीवत्तु झल्लरी वाद्यभेदे केशचक्रे टङ्कारो ज्याखेऽद्भुते । प्रसिद्धौ चाथ गरष्टङ्कणकेकराक्षयोः टट्टरी त्वनृताख्यानलम्पापटहवाद्ययोः । तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी तमस्ततिः तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणि मुनौ तुषारो हिमदेशयोः शीकरे हिमभेदे च तुवरी धान्यकं शुनी । तूवरोऽश्मश्रुपुरुषे प्रौढाऽ शृङ्गानडुह्यपि दहरो मूषिका स्वल्पभ्रात्रोर्डिम्भेऽथ दन्तुरः । उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः वाद्यभाण्डे शैलभेदे दर्दुरं ग्रामजालके । दर्दुरोमा दर्द: स्यादीषद्भग्ने गिरावपि दण्डा वहने मत्तवारणे शरयन्त्रके । कुम्भकारस्य चक्रे च द्वापरं संशये युगे २४७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ५४७ ॥ ।। ५४८ ।। ॥ ५४९ ॥ ।। ५५० ।। ॥ ५५१ ॥ ॥ ५५२ ॥ ॥ ५५३ ॥ ॥ ५५४ ॥ ॥ ५५५ ॥ ॥ ५५६ ॥ ॥ ५५७ ॥ ॥ ५५८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy