________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५३५ ॥
॥ ५३६॥
॥५३७ ॥
॥५३८ ॥
।। ५३९ ॥
॥ ५४०॥
जम्बुद्वीपविभागश्च कुटारं केवले रते । कुञ्जरोऽनेकपे केशे कुञ्जरा धातकीद्रुमे पाटलायां कुठारुमुकीशयोः कूबरः पुनः । कुब्जे युगन्धरे रम्ये केसरो नागकेसरे तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि केदार: क्षेत्रभिद्यालवाले शङ्करशैलयोः । केनारः कुम्भिनरके शिर:कपालसंधिषु केटिरुः शक्रगोपे स्यान्नकुले पाकशासने । कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके खर्परस्तस्करे भिक्षापात्रे धूर्तकपालयोः । खपुरो मुस्तके पूगे लसके खपुरं घटे खरं रूप्यफलयोः खजूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारि वालके खिखिरावद् बहुत्वे च गह्वरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद् गर्गरी तु मन्थनी गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः मुस्तके द्वारि पूद्वारे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनो: चत्वरं स्यात्पथां श्लेषे स्थण्डिलाङ्गणयोरपि । चङ्कुरः स्यन्दने वृक्षे चकुरो नेत्रगोचरे
।। ५४१॥
॥ ५४२॥
।। ५४३॥
॥५४४ ॥
।। ५४५ ।।
॥५४६ ॥
૨૪૫
For Private And Personal Use Only