________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४९९ ॥
॥५०० ॥
॥५०१॥
॥५०२ ॥
॥५०३॥
॥५०४ ॥
विशल्या लाङ्गली दन्तीगुडूचीत्रिपुटासु च । शल्येन रहितायाञ्च प्रियायां लक्ष्मणस्य च श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे। बिल्वे मुनौ च शालेयं शतपुष्पाह्वयौषधे क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदे केशे शैलेयं शैलसंभवे सिन्धूत्थे तालपश्चि शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे सन्निवेशे सन्नयस्तु समवायानुसैन्ययोः । सामर्थ्य योग्यताशक्त्योः सौरभ्यं गुणगौरवे सौगन्ध्ये चारुतायाञ्च हिरण्यं पुनरक्षये। प्रधानधातौ कनके मानभेदे कपर्दके द्रविणाकुप्ययोश्चापि हच्छायो मन्मथात्मनोः । हृदयं वक्षसि स्वान्ते वृक्कायाममरः सुरे स्नुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती। स्थूणा दूर्वा गुडूची चान्तरं रन्ध्रावकाशयोः मध्ये विनार्थे तादर्थ्य विशेषेऽवसरेऽवधौ । आत्मीयाऽत्मपरीधानान्तद्धि बाह्येष्वथावरम् चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः । अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः गगने धर्मतपसोरध्वरे मूलकारणे । अधरोऽनूर्ध्वहीनोष्ठेष्वम्बरं व्योमवस्त्रयोः
॥५०५ ॥
।।५०६॥
॥ ५०७॥
॥ ५०८॥
॥५०९॥
॥५१०॥
૨૪૨
For Private And Personal Use Only