SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वासवे मेघशब्दे च पयस्यं तु पयोभवे । पयोहिते पयस्या तु काकोली दुग्धिकापि च प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ पारुष्यं परुषभावे संक्रन्दनवनेऽपि च । पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ भुजिष्यः स्यादनाधीने किङ्करे हस्तसूत्रके । भुजिष्या गणिकादास्योः मलयः पर्वतान्तरे शैलांशे देश आरामे मलया त्रिवृतौषधौ । मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके बिल्वे मङ्गल्यं तु दध्नि मङ्गल्या रोचना शमी । शतपुष्पा शुक्लवचा प्रियङ्गुः शङ्खपुष्यपि अधःपुष्पी मृगयस्तु फेरौ ब्रह्मणि लुब्धके । रहस्यं गोपनीये स्याद्रहस्या सरिदन्तरे लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः वदान्यः प्रियवाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवद्गर्ये वचोऽहहीनयोरपि वलयः कङ्कणं कण्ठरुक् वालेयस्तु गर्दभे । वल्यर्थे कोमलेऽङ्गारे वल्लय विजयो जये पार्थे विमाने विजयोमातत्सख्योस्तिथावपि । विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः । विनय: शिक्षाप्रणत्योर्विनया तु वलौषधौ ૨૪૧ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥। ४८७ ॥ ॥। ४८८ ॥ ॥ ४८९ ॥ ॥ ४९० ॥ ॥ ४९१ ॥ ॥ ४९२ ॥ ॥। ४९३ ॥ ॥। ४९४ ॥ ॥। ४९५ ॥ ॥ ४९६ ॥ ॥ ४९७ ॥ ।। ४९८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy