________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४७५ ॥
॥ ४७६ ॥
॥ ४७७॥
॥ ४७८ ॥
॥ ४७९ ॥
॥ ४८० ॥
ऊर्णनाभे च मेषे चौर्णेयमेणीत्वगादिके । रतबन्धभिदि स्त्रीणां कषायः सुरभौ रसे रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् कुलायः पक्षिणां स्थानगेहयो: क्षेत्रीयास्त्रयः । अन्यदेहचिकित्साहा॑ऽसाध्यरुक्-पारदारिकाः क्षेत्रिय क्षेत्रजे तृणे गाङ्गेयं स्वर्णमुस्तयोः । कसेरुण्यथ गाङ्गेयो गाङ्गवत् स्कन्दभीष्मयोः चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने । कतकेऽक्षिहिते चापि चक्षुष्या तु कुलच्छिका चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे । जघन्यं शिश्नगर्थेऽन्त्ये जटायुर्गुग्गुलौ खगे तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ । द्वितीया तिथिगेहिन्योद्वितीयः पूरणे द्वयोः नादेयी जलवानीरे भूजम्बूनागरङ्गयोः । काङ्गुष्ठे च जपायां च निकायः सद्मसङ्घयोः परमात्मनि लक्ष्ये च प्रणयः प्रेमयाच्चयोः । विस्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः विश्वासे शपथे हेतावाचारप्रथितत्वयोः । अधीने निश्चये स्यादौ प्रणाय्य: कामवजिते असम्मते प्रसव्यस्तु प्रतिकूलानुकूलयोः । प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये च प्रलयो मृतौ संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे । निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे
॥ ४८१ ॥
॥ ४८२॥
॥ ४८३॥
॥ ४८४ ॥
॥ ४८५ ॥
॥ ४८६ ।।
૨૪૦
For Private And Personal Use Only