________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४६३ ॥
॥ ४६४ ॥
॥ ४६५ ॥
॥ ४६६ ॥
॥ ४६७॥
॥ ४६८ ॥
गजस्य दन्तभेदे च मध्यमो मध्यजस्वरे । देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः राका रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोममरघट्टके विलोमो वरुणे सर्प प्रतापे कुक्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि कान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः । शोभायां संशये हावे सत्तमः श्रेष्ठपूज्ययोः साधिष्ठे सम्भ्रमो भीतौ संवेगादरयोरपि । सुषीमः शिशिरे रम्ये सुषमं रुचिरे समे सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः अवध्यमवधाहे स्यादनर्थकवचस्यपि । अभयमुशीराभीत्योरभया तु हरीतकी अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसंघेऽश्वहितेऽधृष्यः प्रगल्भके अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति । सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि । आतिथ्योऽतिथौ तद्योग्येप्याम्नायः कुल आगमे उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि । उदयः पर्वतोन्नत्योरुर्णायुरविकम्बले
॥ ४६९ ॥
॥ ४७० ॥
॥ ४७१ ॥
॥ ४७२ ॥
॥ ४७३॥
॥ ४७४॥
२36
For Private And Personal Use Only