SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४५१॥ ॥ ४५२॥ ॥ ४५३॥ ॥ ४५४ ॥ ॥ ४५५ ॥ ॥ ४५६॥ विस्रम्भः केलिकलहे विश्वासे प्रणये वधे। वृषभः स्यादादिजिने वृषपुङ्गवयोरपि सनाभि तिसदृशोः सुरभिर्हेम्नि चम्पके । जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः सुगन्धौ गवि सल्लक्यामधमो न्यूनगडंयोः । आगमस्त्वागतौ शास्त्रेऽप्याश्नमो वतिनां मठे ब्रह्मचर्यादिचतुष्केप्युत्तमा दुग्धिकौषधे । उत्तमं तु प्रधाने स्यात्कलम: शालिचौरयोः कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदे कृत्रिमः कृतसिल्हयोः गोधूमो भेषजे नागरङ्गव्रीहिप्रभेदयोः । गोलोमी वारयोषायां षड्गन्धासितदूर्वयोः गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः विताने कुट्टिमे चापि दाडिमः करकैलयोः । निष्कमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च नियम: स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः नैगमो नयपौरोपनिषद्वृतिषु वाणिजे । प्रथम: स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे पञ्चमो रुचिरे दक्षे पञ्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे अग्रेसरप्रथमयोरोंकारे परमं पुनः । स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके ॥ ४५७ ।। ॥ ४५८॥ ॥ ४५९॥ ॥ ४६०॥ ॥ ४६१ ॥ ॥ ४६२ ॥ २34 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy