SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४३९ ॥ ॥ ४४० ॥ ॥ ४४१ ।। ॥ ४४२ ॥ ॥ ४४३॥ ॥ ४४४ ॥ कदम्बः सर्षपे नीपे कदम्ब निकुरुञ्चके। कलम्बो नालिकाशाके पृषत्वे नीपपादपे कादम्बः कलहंसेष्वो: नितम्बः कटिरोधसोः । स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् दैत्यस्तालाङ्कुरः शाखा प्रालम्ब: स्यात्पयोधरे । त्रपुसे हारभेदे च भूजम्बूस्तु विकङ्कते गोधूमाह्वयधान्ये च हेरम्बः शौर्यगविते। महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः त्वरायामुद्यमे चाप्यात्मभूः ब्रह्मणि मन्मथे। ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे कर्णरन्ध्रे कालपुच्छे श्रेष्ठे चाप्युत्तरस्थितः । ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति विधवायां सिरालायां करभी मय उष्ट्रके। अङ्गुलेश्च कनिष्ठायां मणिबन्धस्य चान्तरे ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे । कुसुम्भं तु शातकुम्भे स्याल्लब्धायां कमण्डलौ गर्दभो रासभे गन्धे गर्दभी जन्तुरुभिदोः । गर्दभं कुसुमभेदे दुर्लभः कच्छुरे प्रिये दुष्प्रापेऽपि दुन्दुभिस्तु भेर्यां दितिसुते विषे । अक्षबिन्दुत्रिकद्वन्द्वे निकुम्भ: कुम्भकर्णजे दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च । वर्षाभूः पुनर्नवायां स्याद् गण्डूपदभेकयोः विष्कम्भो विस्तृतौ योगविशेषप्रतिबन्धयोः । योगिनां च बन्धभेदे रूपकाऽवयवेऽपि च ॥ ४४५ ॥ ॥ ४४६ ॥ ॥ ४४७॥ ॥ ४४८॥ ॥ ४४९ ॥ ॥ ४५० ॥ २३७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy