________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४२७॥
॥ ४२८॥
|| ४२९॥
॥ ४३०॥
|| ४३१ ॥
॥ ४३२॥
सुकर्मा योगभेदे स्यात्सक्रिये देवशिल्पिनि। सुदामा पर्वते मेघे सुधन्वा त्वष्ट्धन्विनो: सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गन्धने व्यधने दृशि सेवनं सीवनोपास्त्योः सेनानी: सैन्यपे गृहे। हायनोऽचित्रीहिवर्षे ह्लादिनी वज्रविद्युतोः हिण्डनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जलप्रायेऽप्पथावापः पातभेदालवालयोः प्रक्षेपे भाण्डपचनेऽप्याक्षेपः परिभर्सने । काव्यालङ्करणाकृष्ट्योः स्यादाकल्पस्तु मण्डने कल्पने चाप्युलपस्तु गुल्मिनी तृणभेदयोः । उडुपः प्लवशशिनोः कलापो बर्हतूणयोः संहतौ भूषणे काञ्चयां कच्छपो मल्लबन्धके। कमठे कच्छपी वीणा कसिपुर्भोज्यवस्त्रयोः एकैकस्मिन्द्वयोश्चापि काश्यपो मुनिमीनयोः । काश्यप्युां कुतपस्तु छागकम्बलदर्भयोः वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेऽष्टमांशेऽह्नौ वाद्येऽथ कुटपो मुनौ निष्कुटे मानभेदे च कुणपः पूतगन्धिनि । शवे जिह्वापस्तु शुनि व्याघ्र द्वीपिबिडालयोः पादपो द्रौ पादपीठे पादपा पादरक्षणे। रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि विटप: पल्लवे स्तम्बे विस्तारे षिड्गशाखयोः । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत्
॥ ४३३॥
॥ ४३४ ॥
॥ ४३५ ॥
।। ४३६ ॥
॥ ४३७ ॥
॥ ४३८॥
૨૩૬
For Private And Personal Use Only