________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१५ ॥
।। ४१६॥
॥४१७ ॥
॥४१८ ॥
॥ ४१९ ॥
॥ ४२०॥
श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्यादैवशंसि निमित्ते शकुनः खगे शकुनिः खगे करणभेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः शासनं नृपदत्तोल् शास्त्राज्ञालेखशास्तिषु । शिखरी कोट्टकोयष्ट्योर्द्वमेऽपामार्गशैलयोः शिखण्डी कुक्कुटे चित्रमेखले बर्हिबर्हयोः । भीष्मारौ बाणे शृङ्गारी सुवेषे क्रमुके द्विपे श्लेष्मघ्ना स्यान्मल्लिकायां कम्पिल्यकफणिञ्जयोः । शोभन: सुन्दरे योगे सवनं स्नानयागयोः सोमनिर्दलने चापि सदनं जलसद्मनोः । स्तननं कुन्थने मेघगर्जितध्वनिमात्रयोः स्पर्शनं हृषीके दाने, स्पर्शे च स्पर्शनोऽनिले। स्यन्दनं श्रवणे तोये स्यन्दनस्तिनिशे रथे संव्यानं छादने वस्त्रे समानो देहमारुते । वर्णभित्सत्समैकेषु सन्तानोऽपत्यगोत्रयोः सन्ततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ । चतुष्पथे सन्निवेशे सज्जनं घट्टगुल्मके सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना । संधानं तु संघटनेऽभिषवे संधेनी तु गौः वृषाक्रान्ताऽकालदुग्धा स्थापनं तु निवेशने । पुंसवने समाधौ च साधनं सिद्धसैन्ययोः उपायेऽनुगमे मेढ़े निवृत्तौ कारके वधे । दापने मृतसंस्कारे प्रमाणे गमने धने
॥४२१ ॥
॥ ४२२ ॥
॥ ४२३॥
।। ४२४ ॥
॥ ४२५ ॥
॥ ४२६ ॥
૨૩૫
For Private And Personal Use Only