________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४०३ ॥
॥ ४०४॥
॥ ४०५॥
॥ ४०६॥
॥ ४०७॥
॥ ४०८॥
वर्द्धनं छेदने वृद्धौ वर्द्धनी तु गलन्तिका । वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि वर्त्तने तर्कुपिण्डे च वनश्वा विप्रतारके। शार्दूले गन्धमाजरि वामनो दिग्गजेऽच्युते खर्वेऽङ्कोठे वाहिनी तु सेनातभेदसिन्धुषु । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि वितानं कदके यज्ञे विस्तारे कर्तृकर्मणि । तुच्छे मन्दे वृत्तभेदे शून्यावसरयोरपि विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः । विक्लिन्ना जीर्णशीर्णााः विलीनौ लीनविद्रुतौ विषघ्नः शिरीषतरौ विषघ्ना त्रिवृताऽमृता। विच्छिन्नं तु कुटिले स्यात्समालब्धविभक्तयोः विमानं देवतायाने सप्तभूमगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने वेतनोपायविधिषु प्रकारे वैरकर्मणि । विपन्नो भुजगे नष्टे विश्वप्सा वह्निचन्द्रयोः समीरणे कृतान्ते च विलासी भोगिसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे कामे विषयि हृषीके व्युत्थानं प्रतिरोधने । विरोधाचरणे स्वैरवृत्तौ समाधिपारणे वृजिनः केशे वृजिनं भुग्नेऽघे रक्तचर्मणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोवृतौ वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शान्तिहिंसयोः
॥ ४०९॥
|| ४१०॥
॥ ४११॥
॥४१२॥
॥ ४१३ ॥
॥ ४१४॥
२३४
For Private And Personal Use Only