________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्यमायां गङ्गायां चम्पावृत्तप्रभेदयोः मालिक्यां मिथुनो राशौ मिथुनं पुंस्त्रियोर्युगे । मुण्डनं रक्षणे क्षौरे मेहनं मूत्रशिश्नयोः मैथुनं रतसङ्गत्योः यमनं यमबन्धयोः । यापनं कालविक्षेपे निरासे वर्तनेऽपि च योजनं चतुष्कोश्यां स्याद्योगपरमात्मनोः रसनं ध्वनिते स्वादे रसज्ञारास्नयोरपि रञ्जनं रञ्जके रक्तचन्दनेप्यथ रञ्जनी । मञ्जिष्ठारोचनानीलीगुण्डासु रजनी निशि लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुण्डा दन्ती रोचनिका त्रिवृत् रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ । रोचना रक्तकल्हारे गोपित्ते वरयोषिति लङ्घनं भोजनत्यागे प्लवने क्रमणेऽपि च । लामो वल्ललामाश्वे शृङ्गे चिह्नपताकयोः रम्ये प्रधाने भूषायां पुन्द्रे पुच्छप्रभावयोः । ललना स्त्रीनाडिजिह्वाः लाञ्छनं लक्ष्मसंज्ञयोः लाङ्गली स्याद् बलभद्रे नालिकेरेऽथ लेखनम् । भूर्जे च्छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः तेमनेऽवयवे कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः
233
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३९९ ॥
॥ ३९२ ॥
॥ ३९३ ॥
॥ ३९४ ॥
॥ ३९५ ॥
॥ ३९६ ॥
॥ ३९७ ॥
॥ ३९८ ॥
॥ ३९९ ॥
|| 800 ||
॥ ४०१ ॥
॥ ४०२ ॥