SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३७९ ॥ ॥ ३८० ॥ ॥ ३८१ ॥ ॥ ३८२॥ ॥ ३८३॥ ॥ ३८४ ॥ निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रधनं युधि दारुणे प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः प्रज्ञानं बुद्धौ चिह्ने च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः पवनं पुनरापाके पद्मिनी योषिदन्तरे। अब्जेऽब्जिन्यां सरस्यां च पावनं जलकृच्छ्रयोः पावनः पावके सिल्हेऽध्यासे पावयितर्यपि । पावनी तु हरीतक्यां पाठीनो गुग्गुलुद्रुमे पाठके मीनभेदे च पिशुन: सूचके खले । कप्यासे पिशुना स्पृक्का स्यात्पिशुनं तु कुङ्कुमम् पीतनं तु हरिताले पीतदारुणि कुङ्कुमे । पीतनः पुनराम्राते पूतना तु हरीतकी वध्या च वासुदेवस्य पृतनाऽनीकिनी चमूः । सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः नदीजेऽर्जुनवृक्षे च फाल्गुनी पूर्णिमाभिदि । भवनं सदने भावे भण्डनं कवचे युधि खलीकारे भट्टिनो तु ब्राह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखाम्बुषु भूतात्मा द्रुहिणे देहे मदनः सिक्थके स्मरे। राडे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः मलिनी रजस्वलायां मण्डनं तु प्रसाधने । मण्डनोऽलङ्करिष्णौ स्यान्मार्जनो लोध्रशाखिनि ॥ ३८५ ॥ ।। ३८६ ॥ ॥ ३८७ ॥ ॥ ३८८॥ ॥ ३८९ ॥ ॥ ३९० ॥ ૨૩૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy