________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३३१ ॥
॥ ३३२॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६॥
प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे शरद्भवे पीतमुद्गशालिनेऽप्यथ शारदी। सप्तपर्णाम्बुपिपल्योः सुनन्दा रोचनाङ्गना जननी बाहूबलिनोऽप्यगाधोऽस्ताघरन्ध्रयोः । अवधि: स्यादवधाने कालसीमबिलेष्वपि आनद्धं बद्धमुरजाद्याविद्धः क्षिप्तवक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये संहननेऽप्युपाधिस्तु धर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मन्युपधिव्याजचक्रयोः कबन्धं तुण्डे रुण्डेऽप्सु कबन्धो राहुरक्षसोः । दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे शम्यां व्यामे न्यग्रोधी तु मोहनाख्योषधीभिदि । वृषपर्यो निषधस्तु कठिने पर्वते स्वरे देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे परिधो यज्ञियतरो: शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः वैश्यतः क्षत्रियापुत्रे मागधी तु स्यात्पिप्पली । यूथीभाषाविशेषश्च विबुधः पण्डिते स्वरे विस्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि । विवधो वीवधो भारे पर्याहाराध्वनोरपि संबाधः संकटे योनौ संरोधः क्षेपरोधयोः । संनद्धो वमिते व्यूढे समाधि: स्यात्समर्थने
॥ ३३७ ॥
॥ ३३८॥
।। ३३९ ॥
|| ३४०॥
|| ३४१ ॥
।। ३४२॥
૨૨૮
For Private And Personal Use Only