________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४३ ॥
॥ ३४४॥
।। ३४५ ॥
॥ ३४६ ॥
॥ ३४७॥
॥ ३४८॥
चित्तैकाग्र्यनियमयोौने सन्निधिरन्तिके । प्रत्यक्षे चाथ संसिद्धिः सम्यसिद्धिस्वभावयोः अयनं पथिगेहेऽर्कस्योदग्दक्षिणतो गतौ। अम्लानस्त्वमले किण्टीभेदेऽर्जुनं तृणे सिते नेत्ररोगेऽर्जुनं पार्थे हैहये केकिनि द्रुमे। मातुरेकसुते चार्जुन्युषा गो: कुट्टनी सरित् अङ्गनं प्राङ्गणे याने प्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तद्वायावञ्जनं मसौ रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिग्मतङ्गजे । अञ्जना तु हनुमन्मातर्यञ्जनी लेप्ययोषिति अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्यभक्तायामशनिवज्रविद्युतोः अरलिः कुप्पी पाणौ सप्तकोष्टतताङ्गुलौ । आसनं विष्टरे हस्तिस्कन्धे यात्रानिवर्तने आसनो जीवकतरावासनी पण्यवीथिका। आपन्नः सापदि प्राप्तेऽप्यादानं वाजिभूषणे ग्रहणेऽथोत्थानं सैन्ये पौरुषे युधि पुस्तके । उद्यमोद्गमहर्षेषु वारत्वन्तेङ्गनचैत्ययोः मलोत्सर्गेप्यथोत्तान: सुप्तोन्मुखागभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने उद्धानमुद्गमे चुल्ल्यामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोशोकपादपे कामिकामाभिरूपेषु कठिनं निष्ठुरोखयोः । कठिनी तु खटिका स्यात्कठिना गुडशर्करा
॥ ३४९ ॥
।। ३५०॥
॥ ३५१ ॥
॥ ३५२॥
॥ ३५३ ॥
।। ३५४॥
૨૨૯
For Private And Personal Use Only