________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणे रणे सारावरूदिते नृपे क्षणदं तोये क्षणदो गणके क्षणदा निशि । कपर्दः पार्वतीभर्तुर्जयजूटे वराटके कर्णादुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोर्दैत्यविशेषे च सितोत्पले
कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धयाजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ । गोष्पदं गोखुरस्वभ्रे गवां च गतिगोचरे जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः । ग्रन्थिपर्णे तमोनुत्तु शशिमार्तण्डवह्निषु दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादो सुतसपिण्डौ धनदो दातृगुह्यकौ नलदा मांस्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानर्माल्योः निषादः श्वपचे स्वरे निर्वादस्त्यक्तवादेऽपवादे च प्रमदो मुदि । प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे । प्रतिपत्तु संवित्तिथौ प्रासादो राजमन्दिरै देवतायतने चापि मर्यादा स्थितिसीमयोः । माकन्दः स्यात्सहकारे माकन्द्यामलकीफले मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनिच्छागे मार्जार वरदः पुनः
૨૨૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१९ ॥
॥ ३२० ॥
॥ ३२१ ॥
॥ ३२२ ॥
॥ ३२३ ॥
॥ ३२४ ॥
॥ ३२५ ॥
॥ ३२६ ॥
॥ ३२७ ॥
।। ३२८ ।।
।। ३२९ ।।
॥ ३३० ॥