________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २११ ॥
॥ २१२॥
॥ २१३ ॥
॥ २१४ ॥
॥ २१५ ॥
॥ २१६ ॥
रोषणो रोषणे हेमघर्षे पारद ऊषरे। रोहिणी सोमवल्के भे कण्ठरोगोभयोर्गवि लोहिताकटुरोहिण्योलवणो राक्षसे रसे। अस्थिभेदे लवणात्विट् लक्षणं नामचिह्नयोः लक्ष्मणं च लक्षणस्तु सौमित्रो लक्ष्मणो यथा । लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणद्रुमे । प्राकारे वरणं वृत्यां वारण: स्यान्मतङ्गजे वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ। वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमासुरा गण्डदूर्वा विषाणं तु शृङ्गे कोलेभदन्तयोः । विषाणी मेषशृङ्ग्यां स्यात् विपणिः पण्यहट्टयोः पण्यवीथ्यां श्रमणस्तु निर्ग्रन्थे निन्द्यजीविनि। श्रमणा सुलता मांसी मुण्डीरी च सुदर्शना श्रवणो नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ । शरणं रक्षणे गेहे वधरक्षकयोरपि श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे। संकीर्णो निचिताशुद्धौ सरणिः श्रेणिमार्गयोः सारण: स्यादतीसारे दशकन्धरमन्त्रिणि । सिङ्घाणन्तु घ्राणमलेऽय:किट्टे काचभाजने सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके। सुवर्णं काञ्चने कर्षे सुवर्णालौ मखान्तरे कृष्णागुरुणि विस्ते च सुपर्णः कृतमालके । गरुडे स्वर्णचूडे च सुपर्णा विनताब्जिनी
॥ २१७ ॥
॥ २१८ ॥
॥ २१९ ॥
॥ २२० ।
॥ २२१ ॥
॥ २२२ ।।
૨૧૮
For Private And Personal Use Only