SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १८७॥ ॥ १८८ ॥ ॥ १८९ ॥ ॥ १९० ॥ ॥ १९१ ॥ ॥ १९२ ।। द्विरदस्य च योषायां कर्णिकारतरावपि । कारणं घातने हेतौ करणे कारणा पुनः यातना कार्मणं मन्त्रादियोगे कर्मकारके। काकणी मानदण्डस्य तुरीयांशे पणस्य च कृष्णलायां वराटे च कृपाणी कर्तरी क्षुरी । कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः कौङ्कणः स्याज्जनपदे कौङ्कणं त्वायुधान्तरे । ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे ग्रहोपरागे प्रत्याये ग्रामणी: क्षुरमर्दिनि । प्रधाने भोगिके पत्यौ ग्रामिणी पण्ययोषिति ग्रामेय्यां नीलिकायां च गोकर्णः प्रमथान्तरे। अगुष्ठानामिकोन्माने मृगेऽश्वे नरसर्पयोः गोकर्णी तु मूर्विकायां चरणो मूलगोत्रयोः । बढचादौ च पादे च चरणं भ्रमणेऽदने जरणो रुचके हिङ्गौ जीरके कृष्णजीरके। तरुणः कुक्डपुष्पे स्यादेरण्डे यूनि नूतने तरणिस्तरणेऽ।ऽशौ कुमार्योषधिनौकयोः । यष्ठावाब्धौ दक्षिणस्तु परच्छन्दानुवतिनि दक्षेऽपसव्ये सरले प्राचीनेप्यथ दक्षिणा। दिक्प्रतिष्ठा यज्ञदानं द्रुघणः पशुवेधसोः मुद्गरेऽप्यथ दुर्वर्णं कलधौतकुवर्णयोः । दौर्वीणं मृषपर्णे स्याद्धरितालीरसेऽपि च धरणोऽहिपतौ लोके मान्ये धान्येऽपि दिवाकरे। धरणं धारणे मानविशेषे धरणी भुवि || १९४ ॥ ॥ १९५॥ ॥ १९६॥ ॥ १९७॥ ॥ १९८॥ ૨૧૬ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy