SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्त्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने । गणिस्थराजे वितण्डा कच्चीशाके शिलाह्वये करवी वादभेदे शिखण्डो बर्हचूडयोः । सरण्डः स्यात्कृकलासे भूषणान्तरधूर्त्तयोः अध्यूढ ईश्वरेऽध्यूढा कृतसापल्ययोषिति । आषाढो मलयगिरौ व्रतिदण्डे च मासि च उपोढ ऊढे निकटेऽप्युदूढ: पीवरोढयोः । प्ररुढो जठरे वृद्धे प्रगाढो दृढकृच्छ्रयोः वारुढः शम्बले वस्त्राञ्चलेऽग्नौ पञ्जरेऽररौ । विरूढोऽङ्कुरिते जाते विगूढो गर्ह्यगुप्तयोः समूढः पुञ्जिते सद्योजातेभुग्नेऽनुपप्लुते । संरूढोऽङ्कुरिते प्रौढेऽरुणोऽर्केऽनूरुपिङ्गयोः सन्ध्यारागे बुधे कुष्टे निःशब्दाव्यक्तरागयोः । अरुणा त्रिवृत्तिश्यामामञ्जिष्ठाऽतिविषासु च अभीक्ष्णं तु भृशं नित्यमिरिणं शून्य ऊषरे । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा कणोषणं तु मरिचं करुणो रसवृक्षयोः । करुणा तु कृपायां स्यात्करणं क्षेत्रगात्रयोः गीताङ्गहारसंवेश- भिक्षुकायस्थसंहतौ । वर्णानां स्पृष्टतादौ च योगिनामासनादिषु हृषीके साधकतमे बवादौ च कृतावपि । करणः शूद्राविट्पुत्रे कङ्कणं करभूषणे मण्डने हस्तसूत्रे च कल्याणं हेम्नि मङ्गले । कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे ૧૫ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। १७५ ।। ॥ १७६ ॥ ॥ १७७ ॥ ॥ १७८ ॥ ॥ १७९ ॥ 11860 11 ॥ १८१ ॥ ॥ १८२ ॥ ॥ १८३ ॥ ।। १८४ ।। ॥ १८५ ॥ ॥ १८६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy