________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२७॥
॥ १२८ ॥
।। १२९ ॥
|| १३०॥
॥ १३१ ।।
॥१३२॥
महामूल्येऽप्यवीचिस्त्वन्तरङ्गे नरकान्तरे । कवचस्तु परित्राणे पटहे नन्दिपादपे क्रकच: करपत्रे स्याद् ग्रन्थिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च नमुचिदितिजे कामे नाराचो लोहसायके। जलेभे नाराच्येषण्यां प्रपञ्चो विप्रलम्भने विस्तारे सञ्चये चापि मरीचिः कृपणे घृणौ । ऋषिभेदेऽथ मारीचः कक्कोले याजकद्विपे रक्षोभेदेऽथाण्डज: स्यात्कक्किण्डेऽहौ खगे झषे । अण्डजा तु मृगनाभौ अङ्गजो मन्मथे सुते मदे केशेऽङ्गजं रक्ते कम्बोजो नीवृदन्तरे। शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः काम्बोजः पुनरवानां भेदे पुन्नागपादपे। वलक्षखदिरे चापि काम्बोजी माषपर्णिका कारुज: कलभे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयंजाततिलेऽपि च कुटजोऽगस्त्ये द्रुभेदे द्रोणे गिरिजमभ्रके। शिलाजतुनि लोहे च गिरिजा मातुलुङ्ग्युमा जलजं कमले शङ्के नीरजं पद्मकुष्टयोः । परञ्जोऽसौ तैलयन्त्रे क्षुरिका फलफेनयोः बाहुजस्तु स्वयंजाते तिले क्षत्रियकीरयोः । भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि । सदाकारे वलजा तु पृथिव्यां वरयोषिति
॥ १३३ ॥
॥ १३४ ॥
॥१३५ ॥
॥१३६ ॥
॥ १३७ ॥
॥१३८ ॥
૨૧૧
For Private And Personal Use Only