________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रिशिखो रक्षः त्रिशिखं स्यात्किरीटत्रिशूलयोः । दुर्मुखो मुखरे नागराजे वाजिनि वानरे
मुखं प्रथमे मुख्ये मयूखा जालरुक् त्विषः । विशिखा खनित्रिकायां रथ्यायां विशिखः शरे विशाखो याच स्कन्दे विशाखा भे कटिल्लके । वैशाखः खके राधे सुमुखो गरुडात्मजे पण्डिते फणिभेदे स्यादयोगः कठिनोद्यमे । विश्लेषे विधूरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्रयोः अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे । आभोगः परिपूर्णत्वे वरुणच्छत्रयत्नयोः आयोगो गन्धमाल्योपहारे व्याप्रतिरोधयोः । आशुगोऽर्के शरे वायौ उत्सर्गस्त्यागदानयोः वर्जने सामान्यविधावुद्वेगं पूगिकाफले । उद्वेगस्तूद्वेजने स्यात्कलिङ्गो नीवृदन्तरे पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कौटजे फले कालिङ्गस्तु भुजङ्गमे द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी । चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी जिह्मगो मन्दगे सर्पेतुरगो वाजिचित्तयोः । तुरगी त्वश्वगन्धायां धाराङ्गस्तीर्थखड्गयोः नरङ्गं शेफे वरण्डे नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः निसर्गः सृष्टौ स्वभावे प्लवगः कपिभेकयोः । अर्कसूते पन्नगस्तु पद्मकोष्ठे भुजङ्गमे
२०८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥
॥ १०६ ॥
॥ १०७ ॥
।। १०८ ।।
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥