________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६७॥
॥ ६८॥
॥ ६९ ॥
।। ७० ।।
॥७१ ॥
॥७२॥
दात्यूहे कर्कटेऽर्के च बन्धूक: पीतसालके । बन्धूजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी स्वैरिण्यां च करिण्यां च बालिकाकर्णभूषणे। पिञ्छोलायां वालुकायां बालायां भस्मकं रुजि विडङ्गे कलधौते च भ्रामक: फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे महालक्षणसम्पूर्णपुरुषे करपत्रके। रोहिते शाकभेदे च भूतीकं कट्फलौषधे यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका तु रचनायां रूपान्तरपरिग्रहे मशक: क्षुद्रग्जन्तुभेदयोर्मधुकं वपुः । मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः मण्डूकी मण्डूकपर्यों मण्डूको भेकशोणको। मल्लिको सभेदे स्यात् मल्लिका कुसुमान्तरे मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृष्वथ मालिका पक्षिमल्ले सरि दे ग्रैवेये पुष्पदामनि । मेचक: श्यामले कृष्णे तिमिरे बर्हिचन्द्रके मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु । मोदको हर्षुलो खाद्ये यमको यमजे व्रते यमकं वागलङ्कारे याजको राजकुञ्जरे। याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः संशये चेलनाग्ने स्त्री वस्त्रभेदे पटाञ्चले। रजको धावकशुकौ रसिकाकटिसूत्रके
।। ७३ ॥
॥ ७४॥
॥ ७५ ॥
|| ७६ ॥
॥ ७७ ।।
॥७८ ॥
२०
For Private And Personal Use Only