________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥४८॥
विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे। द्रुमभेदे तण्डकस्तु समस्तपदजातके तरुस्कन्धे वेश्मदारु मायाबहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके तिलकं रुचके क्लोम्नि त्रिशङ्कुः शलभे नृपे। माजरि च तुरुष्कस्तु देशे श्रीवाससिलयोः तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी। दर्शको दर्शयितरि प्रतिहारप्रवीणयोः द्रावकस्तु शिलाभेदे स्याद् घोषकविदग्धयोः । दारको भेदके पुत्रे दीपकं स्यादलङ्कृतिः दीपको दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धैनुकं धेनुसंहत्यां करणेऽपि च योषिताम् नरको दैत्यनिरयौ नन्दक: कुलपालके । हर्षके विष्णुखड्गे च नर्तकः केलके नटे द्विपे पोटगले चापि नर्तकी लासिका द्विपी। नालीकोऽज्ञे शरे शल्ये नालीकं पद्म तद्वने नायको मणिभिन्नेतृ- प्रधानेष्वथ नालिका। नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने निपाक: पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके
॥ ४९ ॥
॥५०॥
॥५१॥
।। ५२ ॥
।। ५३ ॥
॥ ५४॥
૨૦૪
For Private And Personal Use Only