________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१ ॥
॥३२॥
॥३३॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः । गण्डको विघ्ने विद्यायां संख्यावच्छेदखड्गिषु गण्डकी तु सरिभेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि । गान्धिको लेखके गन्धवाणिजे गुण्डकः पुनः कलोक्तौ मलने धूलौ स्नेहपात्रेऽथ गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते अलिञ्जिरे गुडे चापि गोरङ्कुर्नग्नबन्दिनोः । खगे च चषको मद्ये सरके मद्यभाजने चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा। चारकोऽश्वादिपाले स्याद् बन्धे संचारकेऽपि च चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः । चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे । चूतक: कूप आने च चूलिका नाटकाङ्गके करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुके वरुणे फेरौ जतुकं हिगुलाक्षयोः जतुका चर्मचटका जीविको वृद्धजीविनी । क्षपणे प्राणके पीतसालसेवकयोद्रमे व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लिका झिलिकेव स्याच्चीर्यां रुच्यातपस्य च
॥३७ ॥
॥ ३८॥
॥ ३९ ॥
॥४०॥
॥४१॥
॥ ४२ ॥
२०3
For Private And Personal Use Only