________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्षौ मासो वत्सरादिर्मार्गशीर्षः सह: सहाः । आग्रहायणिकश्चाथ पौषस्तैषः सहस्यवत्
।। ६६॥ माघस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । चैत्रो मधुश्चैत्रिकश्च वैशाखे राधमाधवौ
।। ६७॥ ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याद् श्रावणो नभाः । श्रावणिकोथ नभस्यः प्रोष्ठभाद्रपर: पदः
॥६८॥ भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः । कार्तिकिको बाहुलोर्जी द्वौ द्वौ मार्गादिकावृतुः
॥ ६९ ॥ हेमन्तः प्रसलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः
॥ ७० ॥ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृड् मेघात् कालागमौ क्षरी
॥ ७१ ॥ शरद् घनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदग् दक्षिणार्कस्य वत्सर:
॥ ७२ ॥ स संपर्यनुद्भ्यो वर्षं हायनोब्दं समाः शरत् । भवेत् पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम्
॥७३॥ दैवे युगसहस्रे द्वे ब्राझं कल्पौ तु तौ नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
॥ ७४ ।। कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च समसुप्तिजिहानक: तत्कालस्तु तदात्वं स्यात्तज्जं सांदृष्टिकं फलम् । आयतिस्तूत्तर: काल उदर्कस्तद्भवं फलम्
॥ ७६ ॥ व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे। अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः।। ७७ ।।
॥ ७५ ।।
१४
For Private And Personal Use Only