________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५४॥
॥ ५५ ॥
॥५६॥
॥ ५७॥
॥ ५८॥
॥ ५९॥
दिनावसानमुत्सूरो विकालसबली अपि । सायं संध्या तु पितृसूस्त्रिसंध्यं तूपवैणवम् श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः । निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसति: श्यामा वासतेयी तमस्विनी उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी । ज्योत्स्नी तु पूर्णिमारात्रिर्गणरात्रो निशागणः पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्वं प्रदोषो रजनीमुखम् यामः प्रहरी निशीथस्त्वर्धरात्रो महानिशा । उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ध्वान्तं भूच्छायान्धकारं तमसं समवान्धतः । तुल्यनक्तंदिने काले विषुवद्विषुवं च तत् पञ्चदशाहोरात्र: स्यात्पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी प्रतिपत् पक्षतिः समे पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे कलाहीने त्वनुमतिर्मार्गशीर्ष्याग्रहायणी । अमामावस्यमावस्या दर्शः सूर्येन्दुसंगमः अमावास्याऽमावासी च सा नष्टेन्दुः कुहुः कुहू: । दृष्टेन्दुस्तु सिनीवाली भूतेष्टा तु चतुर्दशी
॥६० ॥
॥ ६१॥
॥ ६२॥
॥ ६३ ॥
।। ६४॥
।। ६५ ॥
१३
For Private And Personal Use Only