________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४२ ॥
॥४३॥
|| ४४॥
॥ ४५ ॥
॥ ४६॥
॥ ४७॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् तत्रैकान्तसुषमास्श्चतस्त्रः कोटिकोटयः । सागराणां सुषमा तु तिस्त्रस्तूत्कोटिकोटयः सुषमदु:षमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता अथ दु:षमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदु:षमापि ह्येतत्संख्याः परेऽपि विपरीताः प्रथमेऽस्त्रये मास्त्रिद्व्येकपल्यजीविताः। त्रिव्येकगव्यूत्युच्छ्रायास्त्रिद्व्येकदिनभोजनाः कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रया: पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्याः एकान्तदुःखप्रचिता उत्सपिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि अष्टादश निमेषास्तु काष्ठा काष्ठाद्वयं लवः । कला तैः पञ्चदशभिर्लेशस्तद्वितयेन च क्षणस्तैः पञ्चदशभिः क्षणैः षड्भिस्तु नाडिका। सा धारिका च घटिका मुहूर्तस्तद्वयेन च त्रिंशता तैरहोरात्रस्तत्राहर्दिवसो दिनम्। दिवं धुर्वासरो घस्रः प्रभातं स्यादहर्मुखम् व्युष्टं विभातं प्रत्यूषं कल्पप्रत्युषसी उषः । काल्यं मध्याह्नस्तु दिवामध्यं मध्यंदिनं च सः
॥४८॥
॥४९॥
॥ ५० ॥
।। ५१ ॥
॥५२॥
॥ ५३॥
૧૨
For Private And Personal Use Only