________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ३०॥
॥ ३१ ॥
॥ ३२ ॥
।। ३३ ।।
॥ ३४ ॥
।। ३५ ॥
राशीनामुदयो लग्नं मेषप्रभृतयस्तु ते। आरो वको लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः आषाढाभूर्नवार्चिश्च बुधः सौम्यः प्रहर्षुलः । ज्ञः पञ्चाचिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः । वाचस्पतिर्द्वादशाचिधिषणः फल्गुनीभवः गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मघाभवः काव्य उशना भार्गवः कविः षोडशाचिदैत्यगुरुधिष्ण्यः शनैश्चर: शनिः । छायासुतोऽसित:सौरिः सप्ता/ रेवतीभव: मन्दः क्रोडो नीलवासा: स्वर्भाणुस्तु विधुन्तुदः । तमो राहुः सैहिकेयो भरणीभूरथाहिक: अश्लेषाभूः शिखी केतुर्भुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड् घटोद्भवः मैत्रावरुणिराग्नेय और्वशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ राहुग्रासोऽर्केन्द्वोर्ग्रह उपराग उपप्लवः । उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः अजन्यमीतिरुत्पातो वढ्युत्पात उपाहितः । स्यात्काल: समयो दिष्टायानेहसौ सर्वमूषक: कालो द्विविधोऽवसपिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते
॥ ३६॥
॥ ३७॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
।। ४१ ।।
૧૧
For Private And Personal Use Only