________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजा-रोहिणीद्विजनिशौषधीपतिः ॥१८॥ जैवातृकोब्जश्च कलाशशैण-च्छायाभूदिन्दुर्विधुरत्रिग्जः । राजा निशो रत्नकरौ च चन्द्रः सोमोमृतश्वेतहिमद्युतिग्लौः ॥ १९ ॥ षोडशोऽश: कला चिह्न लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका
॥ २० ॥ चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुड़ ग्रहः
॥ २१ ॥ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता । अश्वयुग् बालिनी चाथ भरणी यमदेवता
॥ २२ ॥ कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी। मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः
|॥ २३ ॥ इल्वलास्तु मृगशिर:शिरःस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामको
॥२४॥ आदित्यौ च पुष्यस्तिष्य: सिध्यश्च गुरुदैवतः । सार्यश्लेषा मघाः पित्र्याः फल्गुनी योनिदेवता ॥ २५ ॥ सा उत्तरार्यमदेवा हस्तः सवितृदेवतः । त्वाष्टी चित्रानिली स्वातिविशाखेन्द्राग्निदेवताः ।। २६ ॥ राधानुराधा तु मैत्री ज्येष्ठैन्द्री मूल आस्रपः । पूर्व पाढापी सोत्तरा स्याद्वैश्वी श्रवणः पुनः
॥ २७ ॥ हरिदेवः श्रविष्ठा तु धनिष्ठा वसुदेवता । वारुणी तु शतभिषगजाहिर्बुध्नदेवताः
॥ २८॥ पूर्वोत्तरा भद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः । रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रिया:
॥ २९ ॥
१.
For Private And Personal Use Only