________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
॥८
॥
॥९॥
॥१०॥
॥ ११ ॥
॥ १२॥
आलोको दर्शने बन्दिघोषणोद्योतयोरपि । आनकः पटहे भेर्यां ध्वनन्मेघमृदङ्गयोः आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ । आह्निकं स्यात्पुनरहनिर्वत्र्ये नित्यकर्मणि भोजने ग्रन्थभागे चाऽऽढकः प्रस्थचतुष्टये। आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे उदर्कस्तूत्तरकालफले मदनकण्टके । उष्णको घर्म उद्युक्तातुरयोरूमिका पुनः उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गऽङ्गुलीयके । वीच्यां च कनकं हेम्नि कनको नागकेशरे धत्तूरे पञ्चके काञ्चनारकिंशुकयोरपि । करको दाडिमे पक्षिभेदे करे कमण्डलौ लट्वाकरङ्कयोर्वर्षोपले च कटुकं कटु । कटुरोहिणी व्योषं च कञ्चुकश्चोलवर्मणोः वर्धापकगृहीताङ्गवसने वारबाणके। निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे सेनायां राजधान्यां च क्रमुको भद्रमुस्तके । गुवाले पट्टिकालोधे कण्टकः क्षुद्रवैरिणि वेणौ द्रुमाङ्गे रोमाञ्चे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कर्णिका कर्णभूषणे बीजकोशे सरोजस्य करमध्याफुलावपि । कुट्टन्यां हस्तिहस्ताने कणिका सूक्ष्मवस्तुनि अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः । कारकं कर्तृकर्माद्योः कारिका यातना नटी
॥१३॥
॥ १४ ॥
॥ १५ ॥
॥१६॥
॥ १७॥
॥१८॥
૨૦૧
For Private And Personal Use Only